Posts

Showing posts from July, 2026

*श्री सत्यनारायण अष्टकम*

Image
* श्रीसत्यनारायणाष्टकम् * आदिदेवं जगत्कारणं श्रीधरं  लोकनाथं विभुं व्यापकं शङ्करम् । सर्वभक्तेष्टदं मुक्तिदं माधवं  सत्यनारायणं विष्णुमीशं भजे || १ || सर्वदा लोक-कल्याण-पारायणं देव-गो-विप्र-रक्षार्थ-सद्विग्रहम् । दीन-हीनात्म-भक्ताश्रयं सुन्दरं  सत्यनारायणं विष्णुमीशं भजे || २ || दक्षिणे यस्य गङ्गा शुभा शोभते  राजते सा रमा यस्य वामे सदा । यः प्रसन्नाननो भाति भव्यश्च तं  सत्यनारायणं विष्णुमीशं भजे || ३ || संकटे समरे यं जनः सर्वदा  स्वात्मभीनाशनाय स्मरेत् पीडितः । पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं  सत्यनारायणं विष्णुमीशं भजे || ४ || वाञ्छितं दुर्लभं यो ददाति प्रभुः  साधवे स्वात्मभक्ताय भक्तिप्रियः । सर्वभूताश्रयं तं हि विश्वम्भरं  सत्यनारायणं विष्णुमीशं भजे || ५ || ब्राह्मणः साधु-वैश्यश्च तुङ्गध्वजो येऽभवन् विश्रुता यस्य भक्त्याऽमरा । लीलया यस्य विश्वं ततं तं विभुं  सत्यनारायणं विष्णुमीशं भजे || ६ || येन चाब्रह्मबालतृणं धार्यते  सृज्यते पाल्यते सर्वमेतज्जगत् । भक्तभावप्रियं श्रीदयासागरं  सत्यनारायणं विष्णुमीशं भजे ||...