*श्री सत्यनारायण अष्टकम*

* श्रीसत्यनारायणाष्टकम् *
आदिदेवं जगत्कारणं श्रीधरं 
लोकनाथं विभुं व्यापकं शङ्करम् ।
सर्वभक्तेष्टदं मुक्तिदं माधवं 
सत्यनारायणं विष्णुमीशं भजे || १ ||

सर्वदा लोक-कल्याण-पारायणं देव-गो-विप्र-रक्षार्थ-सद्विग्रहम् ।
दीन-हीनात्म-भक्ताश्रयं सुन्दरं 
सत्यनारायणं विष्णुमीशं भजे || २ ||

दक्षिणे यस्य गङ्गा शुभा शोभते 
राजते सा रमा यस्य वामे सदा ।
यः प्रसन्नाननो भाति भव्यश्च तं 
सत्यनारायणं विष्णुमीशं भजे || ३ ||

संकटे समरे यं जनः सर्वदा 
स्वात्मभीनाशनाय स्मरेत् पीडितः ।
पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं 
सत्यनारायणं विष्णुमीशं भजे || ४ ||

वाञ्छितं दुर्लभं यो ददाति प्रभुः 
साधवे स्वात्मभक्ताय भक्तिप्रियः ।
सर्वभूताश्रयं तं हि विश्वम्भरं 
सत्यनारायणं विष्णुमीशं भजे || ५ ||

ब्राह्मणः साधु-वैश्यश्च तुङ्गध्वजो येऽभवन् विश्रुता यस्य भक्त्याऽमरा ।
लीलया यस्य विश्वं ततं तं विभुं 
सत्यनारायणं विष्णुमीशं भजे || ६ ||

येन चाब्रह्मबालतृणं धार्यते 
सृज्यते पाल्यते सर्वमेतज्जगत् ।
भक्तभावप्रियं श्रीदयासागरं 
सत्यनारायणं विष्णुमीशं भजे || ७ ||

सर्वकामप्रदं सर्वदा सत्प्रियं 
वन्दितं देववृन्दैर्मुनीन्द्रार्चितम् ।
पुत्र-पौत्रादि-सर्वेष्टदं शाश्वतं 
सत्यनारायणं विष्णुमीशं भजे || ८ ||

अष्टकं सत्यदेवस्य भक्त्या नरः भावयुक्तो मुदा यस्त्रिसन्ध्यं पठेत् ।
तस्य नश्यन्ति पापानि तेनाऽग्निना इन्धनानीव शुष्काणि सर्वाणि वै || ९ ||

 इति श्रीसत्यनारायणाष्टकं सम्पूर्णम् !!

**************

Comments

Popular posts from this blog

🌼 श्राद्ध महिमा : पितृ तर्पण का शास्त्रीय, वैज्ञानिक और आध्यात्मिक आधार 🌼

🌼 भाद्रपद शुक्ल तृतीया: हरितालिका तीज व्रत का महत्व, कथा और विधि

✨ “कनकधारा स्तोत्र : शंकराचार्य की करुणा से झरी स्वर्णधारा” ✨